सिंहमेषन्यायः

विकिसूक्तिः तः

एकदा कश्चन गोपालकः एकं सिंहशावकं प्राप्तवान् । सः तं स्वकीयमेषैः सह पालयितुम् आरब्धवान् । एवं मेषैः सह वर्धितः सः सिंहशावकः तृणादिकं खादितुम् आरब्धवान् । नाहं मेष इति सः न ज्ञातवान् । एवम् अविवेकी शरीरम् एव आत्मानं मत्वा दुःखम् अनुभवति इति भावः । (सा. ३५८)

"https://sa.wikiquote.org/w/index.php?title=सिंहमेषन्यायः&oldid=11292" इत्यस्माद् प्रतिप्राप्तम्