सिकताकूपन्यायः

विकिसूक्तिः तः

सिकतासु निर्मितः कूपः अधिककालं यावत् न तिष्ठति । सत्वरम् एव नश्यति । एवम् अस्थिरस्य कस्यचित् सूचनाय अस्य प्रयोगः क्रियते । यथाः – किंबहुना । सर्वप्रकारेण यथा यथा अयं वैनशिकसमय उपपत्तिमत्वाय परीक्ष्यते तथा तथा सिकताकूपवद् विशीर्यत एव । न काञ्चित् अत्र उपपत्तिं पश्यामः ॥ ब्रह्मसूत्रङ्करभाष्ये २-२-३२

"https://sa.wikiquote.org/w/index.php?title=सिकताकूपन्यायः&oldid=11298" इत्यस्माद् प्रतिप्राप्तम्