सिकतातैलन्यायः

विकिसूक्तिः तः

सिकताभ्यः तैलम् इति अत्यन्तम् अशक्यं कार्यम् । एवं कस्यचित् अशक्यस्य कार्यस्य बोधनाय अस्य प्रयोगः क्रियते । यथा  :- <poem> १) तैलार्थी हि तिलसर्षपान् उपादत्ते न सिकताः । असत्त्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः ॥ न्यायमज्जरी पृष्ठे ४७३ २) तैलार्थी सिकताः काश्चिद् आददानो न दृश्यते । अदृष्ट्वा च अद्य नाऽन्योऽपि तदर्थी तासु धावति ॥ न्यायमज्जरी पृष्ठे ४७४

"https://sa.wikiquote.org/w/index.php?title=सिकतातैलन्यायः&oldid=11300" इत्यस्माद् प्रतिप्राप्तम्