सुतजन्ममृतिन्यायः

विकिसूक्तिः तः

एकदा एकः मनुष्यः परमेश्वरस्य पूजां श्रद्धया कृतवान् । तेन प्रसन्नः ईश्वरः तस्मै वररुपेण पुत्रप्राप्तिम् अनुगृहीतवान् । द्वितीयः पुत्रः भवतु इति सः मनुष्यः अपरं दैवतम् आराधितवान् तेन कुपितस्य प्रथमदैवतस्य कारणेन प्रथमपुत्रः मृतः अभवत् । एवम् अधिकलोभः कृतः चेत् इष्टदेवता अपि न क्षमते इति भावः । (सा. ८७)

"https://sa.wikiquote.org/w/index.php?title=सुतजन्ममृतिन्यायः&oldid=11302" इत्यस्माद् प्रतिप्राप्तम्