स्थूणानिखननन्यायः

विकिसूक्तिः तः

स्थूणा इति स्तम्भविशेषः स्थिरः भवतु इति धिया भूमौ पुनः पुनः निखन्यते एवं ग्रन्थे प्राप्तानां नवीनविषयाणां दाढर्यसंपादपनार्थं पूर्वविषयस्य आवृत्तिः क्रियते तथा नवीनविषयस्य दृढता संपाद्यते इति भावः । यथा – आक्षेपपूर्विका हि परिहारोक्तिः विवक्षिते अर्थे स्थूणानिखननन्यायेन दृढां बुद्धिम् उत्पादयति ॥ ब्रह्मसूत्रशाङ्करभाष्ये ३-३-५३

"https://sa.wikiquote.org/w/index.php?title=स्थूणानिखननन्यायः&oldid=11353" इत्यस्माद् प्रतिप्राप्तम्