स्वदीपचुम्बनन्यायः

विकिसूक्तिः तः

दीपः स्वकीयः चेदपि कोऽपि तं चुम्बितुं न उपक्रमते । तथा साहसे कृते मुखज्वलनं भवति एव । स्वकीय इति दीपः दयां दर्शयेत् किम् ? एवं दुर्जनस्य अपि स्वभाव इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=स्वदीपचुम्बनन्यायः&oldid=11369" इत्यस्माद् प्रतिप्राप्तम्