जैनदर्शनसूक्तयः (चेष्टा)

विकिसूक्तिः तः

<poem> १. एककोटिगतस्नेहो जडानां खलु चेष्टितम् । - क्षत्रचूडामणिः ८.३१

२. कर्म विचित्रत्वान्मानसस्य विचेष्टितम् । - पद्मपुराणम् १२२.१६

३. चित्रं हि स्मरचेष्टितम् । - पद्मपुराणम् ४६.१८६

४. न विदन्ति खलाः स्वैरा

युक्तायुक्तविचेष्टितम् । - उत्तरपुराणम् ७०.२८६

५. नैसर्गिकं हि नारीणां

चेतः सम्मोहि चेष्टितम् । - क्षत्रचूडामणिः ८.४

६. महतां चित्रमीहितम् । - दयोदयचम्पूः ३७

७. विचित्रं खलुसंसारे

प्राणिनां नटचेष्टितम् । - पद्मपुराणम् ८५.९२