जैनदर्शनसूक्तयः (जीवः)

विकिसूक्तिः तः

<poem> १. एक एव भवभृत्प्रजायते

मृत्युमेति पुनरेक एव तु । - हरिवंशपुराणम् ६३.९२

२. एकाकिनैव कर्तव्यं संसारे परिवर्तनम् । - पद्मपुराणम् ५.२३१

३. एकाकी जायते प्राणी

ह्योको याति यमान्तिकम् । - वीरवर्धमानचरितम् ११.३५

४. नरकेषूपजायन्ते पापभारगुरुकृताः । - पद्मपुराणम् १०५.११७

५. पक्षी वृक्षमिव त्यक्त्वा

देहं जन्तुर्गमिष्यति । - प० पु ३१.२३९

६. परिणामानां स्वेषां स भवति ।

कर्ता च भोक्ता च । - पुरुषार्थसिद्ध्युपायः १०.४४

७. भवति तदा कृतकृत्यः

सम्यक् पुरुषार्थसिद्धिमापन्नः । - पुरुषार्थसिद्ध्युपायः ११.५०

८. भवे चतुर्गतौ भ्राम्यन्

जीवो दुःखैश्चितः सदा । - पद्मपुराणम् १७.१७५

९. याति जीवोऽयमेकः । - पद्मपुराणम् ३१.१४५

१०. स्वकृतसम्प्राप्तिप्रवणाः सर्वदेहिनः । - पद्मपुराणम् ७७.६९