सामग्री पर जाएँ

पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१४ गरुडगतिचक्रबन्धः)

विकिसूक्तिः तः

१४. काव्यायास्थित मावर्गव्याजयातगमार्गका ।
कामदा जगतः स्थित्यै रङ्गपुङ्गवपादुका ॥

पदविभागः

[सम्पाद्यताम्]

काव्याय अस्थित मा-आवर्ग-व्याज-यात-ग-मार्गका । कामदा जगतः
स्थित्यै रङ्ग-पुङ्गव-पादुका ।

प्रतिपदार्थः

[सम्पाद्यताम्]

मा - महालक्ष्म्याः, आवर्ग – आवर्जन, व्याज – कारणीभूत, यात – सञ्चार,
ग – प्राप्त, मार्गका – अल्पमार्गवती, कामदा – आश्रितानां सकलानि अभीष्टानि
ददती, रङ्गपुङ्गवपादुका – रङ्गनाथस्य पादुका, जगतः – लोकस्य, स्थित्यै –
रक्षणाय, काव्याय – काव्यानां विषयभूता, अस्थित – अभवत् ।

तात्पर्यम्

[सम्पाद्यताम्]

श्रीरङ्गनाथस्य पादुका तद्वद् एव परमौदार्यवती, दयया सहिता च । सा जनानां
सुकृतलेशानुगुणं यत्र कुत्रापि स्वस्य अल्पसञ्चारमेव व्याजं कृत्वा तत्रस्थितानां
लक्ष्मीकटाक्षं, तद्द्वारा द्रव्यसम्पदं ज्ञानसम्पदं च अनुगृह्णाति । ज्ञानं प्राप्य ते यदा
ताम् आश्रयन्ति तदा तेभ्यः मोक्षन्तान् पुरुषार्थान् ददाति । अत्र काचित् शङ्का उद्भाव्यते ।
सा च एवम् अस्ति । पादुकायाः स्वरूपस्वभावान् ज्ञात्वा खलु लोकः ताम् आश्रित्य
उज्जीवेत् इति । शङ्का एवं समाधीयते । भगवतः विभवावतारेषु, अर्चावतारेषु च पादुका
तेन सहैव अवतीर्य स्वसङ्कल्पेन रामायणपादुकासहस्रादिकाव्यद्वारा स्वमहिमानं लोकाय
ज्ञापयति । तानि काव्यानि पठित्वा लोकः आत्मोज्जीवनमार्गं जानीयात् इति श्लोकस्य
आशयः ।

अस्मिन् श्लोके गरुडगतिचक्रबन्धः इति शब्दचित्रं विद्यते । प्रकारद्वयेन श्लोकाक्षराणि चित्रे
लेखितुं शक्यानि (द्वे अपि चित्रे पश्यत) । यथा गरुडः आकाशे किञ्चिद् उपरि किञ्चिद् अधः
च डयन् चक्रगत्या सञ्चरति तद्वत् अक्षराणां पठनक्रमः निर्दिष्टसङ्ख्यानुगुणः भवति ।