पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१७ अष्टदलपद्मबन्धः)

विकिसूक्तिः तः

१७.कादुपास्यसदालोका कालोदाहृतदामका ।
कामदाध्वरिरंसाकाऽकासा रङ्गेशपादुका ॥

पदविभागः[सम्पाद्यताम्]

क-अत्-उपास्य-सत्-आलोका, काल-उदाहृत-दामका, काम-दा,
अध्व-रिरंसाका, अ-कासा, रङ्गेश-पादुका ॥

प्रतिपदार्थः[सम्पाद्यताम्]

क-अत्-उपास्य-सत्-आलोका – कं (जलं) ये अदन्ति तैः (महर्षिभिः)
ध्यायमानम् उत्कृष्टम् आलोकं प्रकाशं बिभ्रती, काल-उदाहृत-दामका –
(पूजा)कालेषु (भगवतः सकाशात्) उद्धृत्य समर्पितां पुष्पमालां धरन्ती,
कामदा – भक्तानां सत्कामनाः ददती / (दो अवखण्डने इति धातोरनुगुणं
दुष्कामनाः खण्डयन्ती इत्यपि अर्थः), अध्व-रिरंसाका – मार्गेषु रन्तुम् इच्छुका
(सञ्चारप्रिया इत्यर्थः), रङ्गेशपादुका, अकासा – अकारवाच्यस्य भगवतः
इव गतिं (व्यापारं च) वहति ।

तात्पर्यम्[सम्पाद्यताम्]

महर्षिभिः अपारतेजोविशिष्टतया ध्याता, तेषां हृदयेषु स्थितम् अन्धकारं दूरीकृत्य
आलोकम् उत्पादयति पादुका । पूजाकालेषु भगवते समर्प्य उदाहृताः पुष्पमालाः
गौरवेण तस्यै समर्प्यन्ते । अपि च आश्रितानां सदभीष्टानि ददाति, दुष्कामनाः च
वारयति एषा । लोकरक्षणार्थं सर्वदा भगवन्तं सञ्चारेषु नयने उत्सुका च एषा । तस्याः
च गतिः व्यापारश्च रङ्गनाथस्य गतिरिव व्यापारः इव च अस्ति इत्येतत् आश्चर्यावहमिति
वदति कविः ।

विशेषः[सम्पाद्यताम्]

अस्मिन् श्लोके अष्टदलपद्मबन्धः अथवा चतुररचक्रबन्धः इति शब्दचित्रं द्रष्टुं शक्यते।
चित्रे दर्शितं प्रथमपादस्य पठनक्रममनुसृत्य अन्यानपि पादान् पठत । (चित्रे पश्यत ।)