जैनदर्शनसूक्तयः (तपः)

विकिसूक्तिः तः

<Poem> १. इच्छा निरोधस्तपसः सुचिह्नम् । - श्रावकधर्मप्रदीपः २.५१

२. इन्द्रियमनसोर्नियमानुष्ठानं तपः । नीतिवाक्यामृतम् १.२२

३. जना निस्तपसोऽवश्यं प्राप्नुवन्ति फलोदयम् । पद्मपुराणम् ८५.१७०

४. तपः शक्तिरहो परा । दयोदयचम्पूः ३४

५. ज्ञानस्य सत्फलं तेषां ये चरन्ति तपोऽनघम् । - वीरवर्धमानचरितम् १०.९१

६. तपः परमदुष्करम् । - पद्मपुराणम् १०७.३३

७. तपः सर्वार्थसाधनम् । - राजवार्तिकः ९.६.२७

८. तपो मृगायते पुंसां समं धीधैर्यलज्जितैः ।
स्त्रीणां भ्रूचापविश्रान्त नेत्रापाङ्ग शराहतैः । - यशस्तिलकचम्पूः १.७५

९. तपो हि श्रम उच्यते । - पद्मपुराणम् ६.२११

१०. द्वादशभ्यस्तपोभ्योऽन्यतपो नाघक्षयंकरम् । - वीरवर्धमानचरितम् १८.९

११. न विनश्यन्ति कर्माणि जनानां तपसा विना । - पद्मपुराणम् ५९.३१

१२. नाग्न्यं नाम परं तपः । - आदिपुराणम्३६.११७

१३. लोकत्रयेऽपि तन्नास्ति तपसा यन्न साध्यते । - पद्मपुराणम् १३.९२

१४. विशुद्धयति दुराचारः सर्वोऽपि तपसा ध्रुवम् । - निजानन्दफीयूषः १६७

१५. वैयावृत्यं हि तपसो हृदयं ब्रुवते जिनाः । - धवला ७.८०

१६. शुभशुद्धपरिणामात्मकं तेन विना न निर्जरायै बाह्यमूलम् । - भगवती आराधना १३४८

१७. सूते हि फलमक्षीणं तपोऽक्षूणमुपासितम् । - आदिपुराणम् ३६.१५५

१८. स्वाध्यायः परमं तपः । - हरिवंशुपुराणम् १.६९

"https://sa.wikiquote.org/w/index.php?title=जैनदर्शनसूक्तयः_(तपः)&oldid=11861" इत्यस्माद् प्रतिप्राप्तम्