चतुष्पदा न गौरस्मि...

विकिसूक्तिः तः

चतुष्पदा न गौरस्मि
गृहस्था नास्मि गेहिनी।
भूपपण्डितसभ्यानां
काहं कान्तेति प्रोच्यताम्॥

मम चत्वारः पादाः सन्ति, किन्तु नाहं धेनुः। सदा गृहे एव निवासामि, किन्तु नाहं गृहिणी । भूपतिः पण्डितः, गण्याः इत्यादीनां सर्वेषां प्रिया अस्मि, तर्हि 'अहं का' इति उच्यताम् ।

उत्तरम्

आसन्दी
"https://sa.wikiquote.org/w/index.php?title=चतुष्पदा_न_गौरस्मि...&oldid=12165" इत्यस्माद् प्रतिप्राप्तम्