अनन्याश्चिन्तयन्तो मां ये...

विकिसूक्तिः तः

सुभाषितम्

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥




तात्पर्यम्

अन्यत् सर्वं अचिन्तयन्तः ये माम् एव उपासते तादृशानां नित्याभियुक्तानां योगक्षेमम् अहं वहामि