जैनदर्शनसूक्तयः (मोक्षः)

विकिसूक्तिः तः

<Poem> १. जपो न मुक्त्यै न तपो द्विभेदं न संयमो नापि दमो न मौनम् । न साधनाद्यं पवनादिकस्य, किं त्वेकमंतः करणं सुदान्तम् । - अध्यात्मकल्पद्रुमः ९.७ २. धर्म कर्तुं हि किं नालं यस्य भृत्याः सुरद्रुमाः, चिन्तामणिः कर्मकरः कामधेनुश्च किंकरा । - धवला १.३८ ३. धर्मो नैःश्रेयसं सौख्यं दत्ते कर्मक्षयोद्भवम् । - आदिपुराणम् १०.१०७ ४. बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्म विप्रमोक्षो मोक्षः । - तत्वार्थसूत्रम् १०.२ ५. मोक्षमजेयमतोऽजयेद् बुधः । - दयोदयचम्पूः २२ ६. सुलभा भव्यतया हि निवृत्तिः । - पार्श्वनाथचरितम् ३.७