जैनदर्शनसूक्तयः (विनयः)

विकिसूक्तिः तः

<Poem> १.अनिष्टाश्च त्यजेत्सर्वा मनो जातु न दूषयेत् । - धर्मा० ११.४७ २. कुलजातानां विनयः सहजो मतः । - हरिवंशपुराणम् ४३.७ ३. गुणो हि मुख्यो विनयः प्रभूणाम् । - पार्श्वनाथचरितम् २.११७ ४. गुरुवचनमनुल्लंघनीयमन्यत्राधर्मानुचिताचारात्मप्रत्यवायेभ्यः । - नीतिवाक्यामृतम् ११.९ ५. न परं विनयः श्रीणामाश्रयः श्रेयसामपि । ध० श० ३.४६ ६.पुण्यवान् स नरो लोके यो मातुर्विनये स्थितः । - पद्मपुराणम् ८१.७९ ७. व्रत-विद्या- वयोऽधिकेषु नीचैराचरणं विनयः । - नीतिवाक्यामृतम् ११.६