अयं निजः परो वेति...

विकिसूक्तिः तः

सुभाषितम्

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

हितोपदेशः २,३-७१

ayaṃ nijaḥ paro veti gaṇanā laghucetasām । udāracaritānāṃ tu vasudhaiva kuṭumbakam ॥

पदच्छेदः

अयं, निजः, परः, वा, इति, गणना, लघुचेतसाम्, उदारचरितानां, तु, वसुधा, एव, कुटुम्बकम् ।


तात्पर्यम्

'एषः मदीयः', 'सः अन्यः' इत्येवं चिन्तनं लघुमनस्कानां रीतिः । 'प्रपञ्चमेव मम कुटुम्बः' इत्येवं परिगणनम् उदाराणां स्वभावः।


आङ्ग्लार्थः

He is mine, he is another, not mine- such are thoughts of narrow minded people. For the noble minded the whole world is a family.

"https://sa.wikiquote.org/w/index.php?title=अयं_निजः_परो_वेति...&oldid=17507" इत्यस्माद् प्रतिप्राप्तम्