अयं लोको, नास्ति पर...

विकिसूक्तिः तः

अयं लोको, नास्ति पर इति मानी पुनः पुनः वशमापद्यते
मे । - काठकोपनिषत् १-२-६

यो मूढः प्रत्यक्षप्रमाणमात्रगोचरं लोकं सत्यं मन्यते, प्रत्यक्षागोचरं
लोकान्तरं नास्तीति वादं करोति तादृशो दुरभिमानी मानवः पुनः
पुनः ममैव अतिथिर्भवति ।

लोकान्तराधिपतेः धर्माधिपतेः यमधर्मराजस्य जागरणवचनमिदम्,
ये मानवाः नास्तिकाः सन्तः धर्मबाह्याः सन्तः, वेदवाक्यानि निन्दन्तः,
लोकान्तरजन्मान्तरविषये श्रद्धारहिताः, केवलम् उदरपोषणनिरताः,
स्वेच्छाविहारिणः सन्तः पशुपक्षिवत् जीवनं यापयन्ति, तेषां पौनः
पुन्येन जन्ममरणानि अवश्यं भवन्त्येव ॥

प्रत्यक्षप्रमाणागोचरौ अपि धर्माधर्मौ वेदप्रमाणतो सिद्ध्यतः ।
प्रत्यक्षप्रमाणागोचराण्यपि लोकान्तरजन्मान्तराणि भवन्त्येव इति
वेदप्रामण्यात् श्रद्धेयमेव । एतद्देहभिन्नतया जीवात्मा अस्ति इत्यपि
अवश्यम् अभ्युपगन्तव्यमेव । पुण्यकर्मभ्यः सुखानि, पापेभ्यः दुःखानि
च मानवः अनुभवति इति वेदशास्त्राणि उपदिशन्ति । सर्वथा मानवेन
आस्तिकेन भाव्यम् इति यमस्य उपदेशः ॥

"https://sa.wikiquote.org/w/index.php?title=अयं_लोको,_नास्ति_पर...&oldid=16283" इत्यस्माद् प्रतिप्राप्तम्