जैनदर्शनसूक्तयः (साधुः)

विकिसूक्तिः तः

<poem> १.गुणदोषसमाहारे गुणान् गृह्णन्ति साधवः । - पद्मपुराणम् १.३५ २.धिनोति च मनोवृत्तिमहो साधुसमागमः । - आदिपुराणम् ९.१६० ३.प्रतिकूलसमाचारा न भवन्त्येव साधवः । - पद्मपुराणम् ८.५१ ४.प्रणाममात्रसाध्यो हि महतां चेतसः शमः । - पद्मपुराणम् ४८.३२ ५.सतां हि साधुसम्बन्धाच्चित्तमानन्दमीयते । - पद्मपुराणम् ११०.२५ ६.साधुवर्गो हि सर्वेभ्यः प्राणिभ्यः शुभमिच्छति । - पद्मपुराणम् १७.१७१ ७.स्वदुःखे निर्घृणारम्भाः परदुःखेषु दुःखिताः । - आदिपुराणम् ९.१६४ ८.स्वपरानुग्रहपराः सन्तस्ते विरलाः कलौ । - धर्मा० ६.२०