अयं शारीर आत्मा...

विकिसूक्तिः तः

अयं शारीर आत्मा प्राज्ञेनात्मना अन्वारूढः उत्सर्जन् याति । - बृहदारण्यकोपनिषत् ४-३-३५

अयं शारीरः आत्मा प्राज्ञेन आत्मना अन्वारूढः उत्सर्जन्, इमं देहं
विहाय देहान्तरस्वीकाराय याति ॥

शारीरात्मा नाम जीवात्मा । अयम् अस्मिन् जन्मनि सकलान् भोगान्
भुक्त्वा ततः इमान् देहादीन् अत्रैव त्यक्त्वा जन्मान्तरं प्रविशति ।
सर्वानपि उपाधीन् अत्रैव विहाय अयं जीवः प्राज्ञेन आत्मना अन्वारूढः
सन् देहान्तराय प्रयाति ॥

जीवात्मनः देहान्तरं जन्मान्तरं च वर्तते । तत्र गत्वा जीवः पुनः फलानि
अनुभवति । इतः निर्गतो जीवः परमात्मना अधिष्ठितः सन् देहान्तरं प्राप्नोति ।
प्राज्ञात्मा नाम स्वयंज्योतिः स्वरूपः परमात्मा । तस्य अनुग्रहादेव जीवात्मनः
लोकान्तरगतिर्भवति । जीवस्य उत्क्रान्तिकाले सर्वाणि इन्द्रियाणि इमं देहं
विहाय गच्छन्ति तदा जीवः सङ्कटमनुभवन् वेपमानः प्रयास्यति । मरणमात्रेण
नासौ जीवः कृतार्थो भवेत् । देहान्तरं प्राप्य तत्रापि कर्मफलानि अनुभवेदेव
एषः जीवः । अविद्याफलमिदम् ॥

"https://sa.wikiquote.org/w/index.php?title=अयं_शारीर_आत्मा...&oldid=16455" इत्यस्माद् प्रतिप्राप्तम्