मित्रप्रशंसा
दिखावट
मित्रप्रशंसा
[सम्पाद्यताम्]पापान्निवारयति योजयते हिताय
गुह्यान्निगूहति गुणान् प्रकटीकरोति।
आपद्गतञ्च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥
ददाति प्रतिगृह्णाति
गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव
षड्विधं प्रीतिलक्षणम्॥