अपारे काव्यसंसारे

विकिसूक्तिः तः

सुभाषितम्

अपारे काव्यसंसारे कविरेक: प्रजापतिः।
यथास्मै रोचते विश्वं तथा वै परिवर्तते ॥

अग्निपुराणम् ३३९.१०

apāre kāvyasaṃsāre kavireka: prajāpatiḥ।
yathāsmai rocate viśvaṃ tathā vai parivartate ॥

पदच्छेदः

अपारे, काव्यसंसारे, कविः, एक:, प्रजापतिः, यथा, अस्मै, रोचते, विश्वं, तथा, वै, परिवर्तते ।


तात्पर्यम्

काव्यप्रपञ्चः विशालः अस्ति। तत्र विषयानां जन्मदाता कविः एव। कविभ्यः यथा विश्वं रोचते तथा परिवर्तयितुं कवयः शक्नुवन्ति। जगति अविद्यमानान् अपि अंशान् वर्णयितुं शक्नुवन्ति, विद्यमानस्यापि अविद्यमानत्वेन वर्णयितुं प्रभवन्ति इति भावः।


आङ्ग्लार्थः

In the boundless world of poetry, PrajApati (Brahma) is the only one poet. He changes the universe as and when he thinks best .

"https://sa.wikiquote.org/w/index.php?title=अपारे_काव्यसंसारे&oldid=17499" इत्यस्माद् प्रतिप्राप्तम्