ये नाम केचिदिह...

विकिसूक्तिः तः

सुभाषितम्

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यत्नः।
उत्पत्स्यते तु मम कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥

मालतीमाधवम् १-६

ye nāma kecidiha naḥ prathayantyavajñāṃ
jānanti te kimapi tānprati naiṣa yatnaḥ।
utpatsyate tu mama ko'pi samānadharmā
kālo hyayaṃ niravadhirvipulā ca pṛthvī॥

पदच्छेदः

ये, नाम, केचित्, इह, नः, प्रथयन्ति, अवज्ञाम्, जानन्ति, ते, किम्, अपि, तान्, प्रति, न, एषः, यत्नः, उत्पत्स्यते, तु, मम, कः, अपि, समानधर्मा, कालः, हि, अयम्, निरवधिः, विपुला, च, पृथ्वी ॥


तात्पर्यम्

भवभूतिः वदति - ये केचन अस्माकं विषये अवज्ञां प्रकटयन्ति ते किं जानन्ति ? एषः प्रयत्नः तेषां कृते न । अग्रे कश्चन समानचिन्तकः आगच्छेत् यतः समयः सीमारहितः भूमिः विपुला च ।


आङ्ग्लार्थः

Whosoever spreads words of disrespect about us do they know ? This effort (this work) is not for them (to indulge in) someone will arise, who would have identical mode, manner (of thinking) because time is endless and the earth is abundant (supportive of mankind of variety of characters).

"https://sa.wikiquote.org/w/index.php?title=ये_नाम_केचिदिह...&oldid=17780" इत्यस्माद् प्रतिप्राप्तम्