अतिपरिचयादवज्ञा...

विकिसूक्तिः तः

सुभाषितम्

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥

शार्ङ्गधरपद्धतिः नीतिपद्धतिः - ८९

atiparicayādavajñā santatagamanādanādaro bhavati ।
malaye bhillapurandhrī candanatarukāṣṭhamindhanaṃ kurute ॥

पदच्छेदः

अतिपरिचयात्, अवज्ञा, सन्ततगमनात्, अनादरः, भवति, मलये, भिल्लपुरन्ध्री, चन्दनतरुकाष्ठम्, इन्धनं, कुरुते ।


तात्पर्यम्

अतिपरिचयः उपेक्षायाः कारणं भवति, पुनः पुनः गमनेन अनादरः भवति । मलयपर्वतप्रदेशे वसमाना भिल्लस्त्री श्रीगन्धस्य काष्ठम् इन्धननिमित्तम् उपयुङ्क्ते ।


आङ्ग्लार्थः

Excessive familiarity breeds contempt, going repeatedly (to someone else's house) causes disrespect. On the Malaya mountain, the tribal housewife uses sandalwood bark as fuel!

"https://sa.wikiquote.org/w/index.php?title=अतिपरिचयादवज्ञा...&oldid=17414" इत्यस्माद् प्रतिप्राप्तम्