औद्धत्यं...

विकिसूक्तिः तः

औद्धत्यं परनिन्दनोद्यतवचो वाच: खरा: सर्वदा ।
छिद्रान्वेषणपाटवं बुधजनाक्षेपा वृथा कुत्सिता:॥
यज्ञे नामजपेऽपि वा तपसि वानास्था परा यस्य मे
किं साधो तव सङ्गतेन भविता भद्रं दिने चान्तिमे॥

"https://sa.wikiquote.org/w/index.php?title=औद्धत्यं...&oldid=14445" इत्यस्माद् प्रतिप्राप्तम्