यद् धात्रा...

विकिसूक्तिः तः

यद् धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्।
तद् धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा माकृथा:
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वच:॥

"https://sa.wikiquote.org/w/index.php?title=यद्_धात्रा...&oldid=14451" इत्यस्माद् प्रतिप्राप्तम्