यावत् स्वस्थमिदं...

विकिसूक्तिः तः

यावत् स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा।
यावच्चेन्द्रियशक्तिरप्रतिहता, यावत् क्षयो नायुष:।
आत्मश्रेयसि तावदेव विदुषा कार्य: प्रयत्नो महान्।
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यम: कीदृश:॥

"https://sa.wikiquote.org/w/index.php?title=यावत्_स्वस्थमिदं...&oldid=14452" इत्यस्माद् प्रतिप्राप्तम्