अविज्ञातं विजानताम्...
अविज्ञातं विजानताम्, विज्ञातम् अविजानताम् । - केनोपनिषत् २-३
विवेकेन विजानतां ब्रह्म अविज्ञातमेव, सम्यक् अविजानतां ब्रह्म विज्ञातम् इति एकोऽर्थः;
विषयत्वेन जानतां ब्रह्म अविज्ञातमेव, अविषयत्वेन जानतां ब्रह्म ज्ञातमेव इति अपरोऽर्थः ॥
विवेकेन ब्रह्म विज्ञातव्यम् । अनात्मवस्तुभ्यः विविच्य आत्मत्वेन ब्रह्म ज्ञातव्यम् । एवं ज्ञाते
प्रमाणागोचरत्वेन आत्माभिन्नत्वेन च ब्रह्म ज्ञातं भवति । आत्मैव च ब्रह्म इति ज्ञातं भवति ।
एवं ज्ञाते हि ब्रह्म विज्ञातं भवति । एवंविदेव ब्रह्मज्ञानी भवति ॥
विशेषत्वेन ब्रह्मणः विज्ञानं नाम, ब्रह्म तादृशम्, ईदृशम्, महत्तमम्, अष्टाविंशतिभुजम्, मया तद्
ब्रह्म उपास्यम्, मया चिन्त्यम्, मया ज्ञातव्यं ब्रह्म; तस्य ब्रह्मणः उपासनेन मयि ब्रह्मणः अनुग्रहो
भविष्यति, मरणानन्तरम् अहं तत्र गत्वा तद् ब्रह्म प्राप्नुयाम् इत्यादिरूपेण ज्ञानम् । एवमादिक्रमेण
सविशेषतया ब्रह्म विदितवतः परं ब्रह्म नैव ज्ञातम् इत्यर्थः, स्वस्वरूपत्वेन ब्रह्मणि विज्ञाते सति ब्रह्म
ज्ञातं भवति ॥