महता पुण्यमूल्येन...

विकिसूक्तिः तः


सुभाषितम्

महता पुण्यमूल्येन क्रीयते कायनौस्त्वया ।
गन्तुं दु:खोदधे: पारं तर यावन्न भिद्यते ॥ (स्कन्दपुराणम्/मा कौ २/५२-५३)




तात्पर्यम्

अन्वय: - दु:खोदधे: पारं गन्तुं कायनौ: महता पुण्यमूल्येन त्वया क्रीयते । (अत:) यावत् (सा) न भिद्यते, तर (दु:खोदधिं)। पदार्थ: -

उदधि: = सागर:/समुद्र: (उदानि उदकानि वा धीयन्तेऽस्मिन्।)
दु:खोदधि: = दु:खपूरितसंसारसागर:
कायनौ: = शरीररूपिणी नौका
सरलार्थ: - बहूनां जन्मनामन्ते , महत्पुण्यसञ्चयनानन्तरं जीव: मनुष्यदेहं प्राप्नोति (अन्ययोनिषु वारं वारं जन्म प्राप्नोति तस्मात् पूर्वं ) । मनुष्यदेहेनैव मोक्षचिन्तनं तदनु प्रयत्नमपि कर्तुं जीव: पारयति । अत: यावत् पर्यन्तं इदं शरीरं (संसारसागरे जीवस्य नौका) न नश्यति ,तावत् (तदभ्यन्तरैव) संसारसागर: तरणीय: ।

"https://sa.wikiquote.org/w/index.php?title=महता_पुण्यमूल्येन...&oldid=15086" इत्यस्माद् प्रतिप्राप्तम्