अश्वा गावः पुरुषाः हस्तिनो...

विकिसूक्तिः तः

अश्वा गावः पुरुषाः हस्तिनो यत् किञ्चेदं प्राणि जङ्गमं च पतत्रि च, यच्च स्थावरं,
सर्वं तत् प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् ॥ - ऎतरेयोपनिषत् ३-१-३

अश्वाः, गावः, पुरुषाः, गजाः, प्राणिनः, जङ्गमाः, पतत्रिणः, स्थावराश्च प्राणिनः – एतत् सर्वं प्रज्ञानेत्रमेव ।
इदं सर्वमपि प्रज्ञाने एव प्रतिष्ठितमस्ति ॥

अस्याम् ऎतरेयोपनिषदि परं ब्रह्म ‘प्रज्ञानम्’ इति उपदिश्यते । प्रज्ञानं नाम प्रज्ञप्तिस्वरूपम् इत्यर्थः । समस्तम्
इदं चेतनाचेतनात्मकं विश्वं प्रज्ञानम् एव । न केवलं श्रेष्ठाः देवगन्धर्वमानवाः प्रज्ञानम्, किं तु नीचाश्च प्राणिनः प्रज्ञानमेव ॥

राजसाः अश्वाः, सात्त्विकाः गावः, तामसाश्च गजाः परमार्थतः निरुपाधिकदृष्ट्या गुणातीतं प्रज्ञानमात्रमेव भवन्ति ।
श्वानः, शृगालाः, गर्दभाः, वराहाः, मार्जाराः, वानरादयो जङ्गमप्राणिनः; काकाः, शुकाः, उलूकादयः पक्षिणः;
एतत् सर्वमपि प्रज्ञानमेव, चैतन्यम् एकमेव, आकारक्रियास्तु भिन्नाः विभिन्नाः भवन्ति । परमार्थतस्तु सर्वमपि प्रज्ञानमेव ॥