जयतात् संस्कृतवाणी...

विकिसूक्तिः तः

जयतात् संस्कृतवाणी...


जयतात् संस्कृतवाणी मधुरा

भवतात् विश्वृजनादरणीया
मञ्जुलभाषिणी
चारुविलासिनी
कलरवरम्यधुनी ॥


पावन-मुनिजन-कुञ्ज-विहारिणी
सुमनोमन्दिर-लास्य-विधायिनी
अनुपमसुन्दरी ललितकलावनी
वल्मीकभवादि-कवीन्द्रखनी
ज्ञानप्रदायिनी
रसिकविलासिनी
घनविपदुपशमनी ॥१॥


सत्य-शान्ति-शम-दमोपदेशिनी
धर्मकर्मसु धैर्यप्रचोदिनी
नीरसभुवने नवरसपूरिणी
सपदि जनानां तापनिवारिणी
कलिमलहारिणी
भवजलतारिणी

सरसिजभवरमणी ॥२॥
- गु. गणपय्यहोळ्ळ:


"https://sa.wikiquote.org/w/index.php?title=जयतात्_संस्कृतवाणी...&oldid=15199" इत्यस्माद् प्रतिप्राप्तम्