संस्कृतेन सम्भाषणं कुरु...

विकिसूक्तिः तः

संस्कृतेन सम्भाषणं कुरु...


संस्कृतेन सम्भाषणं कुरुऽऽ, जीवनस्य परिवर्तनं कुरु

यत्र यत्र गच्छसि पश्य तत्र संस्कृतं
संस्कृते: संरक्षणं कुरुऽऽ ॥१॥


जीवनस्य लक्ष्यमस्ति किम् ?
जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् ।
स्फूर्तिरस्ति, तत्र प्रीतिरस्ति
स्फूर्तिरस्ति, प्रीतिरस्ति संस्कृतस्य वर्धने
जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं
समर्पयाम संस्कृताय जीवनम्ऽऽ ॥२॥


जागृयाम वयं प्रेरयाम
जागृयाम प्रेरयाम सर्वहिन्दुसोदरान्
सम्पिबाम वयं पाययाम
सम्पिबाम पाययाम संस्कृतामृतं सदा ।
देशहितचिन्तनं विना यस्य जीवनम्
व्यर्थमेव तस्य गर्ह्यजीवनम्ऽऽ ॥३॥


ऐक्यमस्तु अचलबुद्धिरस्तुव्व्
ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम् ।
धीरतास्तु नैव भीतिरस्तु
धीरतास्त्वभीतिरस्तु मास्तु उदासीनता
मातृभूमिसेवनं दीनदलितरक्षणं

संस्कृतप्रचार एव जीवनम्ऽऽ ॥४॥
- श्री वेङ्कटरमणमुच्चिन्नाय:


}}