जय जय भारतदेश...

विकिसूक्तिः तः

जय जय भारतदेश...


जय जय भारतदेश जय त्वं जय जय भारतदेश ।

नत्वा रुद्रं कैलासेशं ताण्डवकर्तारं
ध्यात्वा रामं धनुर्धारिणं रावणहन्तारं
स्मृत्वा कृष्णं चक्रधारिणं कंसच्छेत्तारं
प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥१॥


जयतु हनूमान् लङ्कादग्धा द्रोणाचलधारी
जयतु प्रतापो राणावीरो गिरिकन्दरवासी
जयतु शिवाजी, झान्सीलक्ष्मी: देवी रणचण्डी
प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥२॥


गङ्गा-यमुना-ब्रह्मपुत्रनद-गण्डक-पावनवारि
कृष्णा-गोदा-सिन्धु-नर्मदा: तां सरयूं कावेरीं
सह्य-सप्तपुट-विन्ध्य-हिमाचलम् उन्नतशृङ्गसुशोभं

प्रणम्य सर्वान् पराक्रमध्वं, घोषयध्वम्, घोषयध्वम् ॥३॥



"https://sa.wikiquote.org/w/index.php?title=जय_जय_भारतदेश...&oldid=15228" इत्यस्माद् प्रतिप्राप्तम्