अकीर्तिर्यस्य गीयेत...

विकिसूक्तिः तः

सुभाषितम्

अकीर्तिर्यस्य गीयेत, लोके भूतस्य कस्यचित्।
पतत्येवाधमांल्लोकान्, यावच्छब्दः प्रकीर्त्यते॥

वाल्मीकिरामायणम् /उत्तर/४५/१२-१३

akīrtiryasya gīyeta, loke bhūtasya kasyacit।
patatyevādhamāṃllokān, yāvacchabdaḥ prakīrtyate॥

पदच्छेदः

अकीर्तिः, यस्य, गीयेत, लोके, भूतस्य, कस्यचित्, पतति, एव, अधमान्, लोकान्, यावत्, शब्दः प्रकीर्त्यते ।


तात्पर्यम्

यावत्पर्यन्तं लोके यस्यकस्यापि प्राणिविशेषस्य अपयशः (अपकीर्तिः) गीयते तावत्पर्यन्तम् अर्थात् अकीर्तिशब्दस्य संकीर्तनपर्यन्तं सः नीचलोके पतितो भूत्वा तिष्ठति। (अकीर्तिसम्बद्धः) अकीर्त्या तप्यते चेतश्चेतस्तापोऽशुभास्रवः।


आङ्ग्लार्थः

Whoever it may be, if his ill fame be current in the world, he falls to a lower state, so long as the defamatory rumours exist.

"https://sa.wikiquote.org/w/index.php?title=अकीर्तिर्यस्य_गीयेत...&oldid=16680" इत्यस्माद् प्रतिप्राप्तम्