अकीर्त्या तप्यते ...

विकिसूक्तिः तः

सुभाषितम्

अकीर्त्या तप्यते चेतश्चेतस्तापोऽशुभास्रवः।
तत्तत्प्रसादाय सदा, श्रेयसे कीर्तिमर्जयेत्॥

धर्मामृतम्/११/८३

akīrtyā tapyate cetaścetastāpo'śubhāsravaḥ।
tattatprasādāya sadā, śreyase kīrtimarjayet॥

पदच्छेदः

अकीर्त्या, तप्यते, चेतः, चेतस्तापः, अशुभास्रवः, तत्, तत्, प्रसादाय, सदा, श्रेयसे, कीर्तिम्, अर्जयेत् ।


तात्पर्यम्

अपयशसा चित्तं तप्तं भवति। चित्ततापः दुःखं जनयति। दुःखस्य कारणवशात् अशुभं वचः मुखात्निस्सरति। हृदयतापम् अमङ्गलञ्च दूरीकर्तुं कल्याणमासादयितुञ्च सर्वदा यशः प्राप्तुञ्च कीर्तिमर्जयेत्। तद्दिशि प्रयत्नशीलः भवेत् मानवः।


आङ्ग्लार्थः

The mind is burning with disgrace. Heartburn causes suffering. Evil words come out of his mouth because of grief One should earn fame to remove heartache and misfortune, to attain well-being and to always attain fame. One should strive in that direction.

"https://sa.wikiquote.org/w/index.php?title=अकीर्त्या_तप्यते_...&oldid=17829" इत्यस्माद् प्रतिप्राप्तम्