असतो मा सद्गमय...

विकिसूक्तिः तः

असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय । - बृहदारण्यकोपनिषत् १-३-२८

भोः परमात्मन्, असतः सकाशात् मां सत्यं गमय, तमसः मां प्रकाशं गमय, मृत्योः
सकाशात् माम् अमृतं गमय ।

पवित्रो ह्ययं मन्त्रः । सार्वत्रिको मन्त्रोऽयम् । विश्वशान्तिमन्त्रोऽयम् । सार्वजनीनशान्तिमन्त्रोऽयम् ।
सर्वैरपि मानवैः विश्वशान्त्यै पठनीयोऽयं मन्त्रः । ईश्वरे प्रार्थनीयोऽयं मन्त्रः ॥

भोः परमात्मन्, अस्मान् असत्यात् सत्यं प्रति गमय । इदं सर्वं हि जगत् मिथ्यारूपमेव । परमात्मा
एक एव हि सत्यम् । अस्मान् अस्मात् आभासरूपात् जगतः सत्यं परमात्मानं प्रति गमय इत्यर्थः ।
सर्वोऽप्ययं प्रापञ्चिको व्यवहारः अन्धकारमयः । अहङ्कारममकारैः पूर्णोऽयं व्यवहारः सर्वोऽपि अन्धकार
एव । अस्मात् अस्मान् परमार्थस्वरूपं प्रकाशं प्रति नय इत्यर्थः । तथा सर्वमिदं शरीरं मृत्युरेव,
अस्मात् शरीरबन्धनात् अस्मान् अमृतत्वं प्रति गमय इत्यर्थः । एताः तिस्रः मुमुक्षुभिः भगवति क्रियमाणाः प्रार्थनाः ॥

"https://sa.wikiquote.org/w/index.php?title=असतो_मा_सद्गमय...&oldid=16457" इत्यस्माद् प्रतिप्राप्तम्