अकृतात्मानमासाद्य...

विकिसूक्तिः तः

सुभाषितम्

अकृतात्मानमासाद्य, राजानमनये रतम्।
समृद्धानि विनश्यन्ति, राष्ट्राणि नगराणि च॥

रामायणम्/सुन्दर/२१/११

akṛtātmānamāsādya, rājānamanaye ratam।
samṛddhāni vinaśyanti, rāṣṭrāṇi nagarāṇi ca॥

पदच्छेदः

अकृतात्मानम्, आसाद्य, राजानम्, अनये रतम्, समृद्धानि, विनश्यन्ति, राष्ट्राणि, नगराणि, च ।


तात्पर्यम्

विषयासक्तेन लौकिकोपभोगरतेन नीतिहीनेन राज्ञा वा शासकेन भूषितं राष्ट्रं तथा नगरञ्च भौतिकदृष्ट्या समृद्धमपि विनश्यति ।


आङ्ग्लार्थः

Even prosperous countries and cities are destroyed on account of indiscreet rulers engaged in unfair means.

"https://sa.wikiquote.org/w/index.php?title=अकृतात्मानमासाद्य...&oldid=17338" इत्यस्माद् प्रतिप्राप्तम्