अक्रोधः सत्यवचनं...

विकिसूक्तिः तः

सुभाषितम्

अक्रोधः सत्यवचनं संविभागः क्षमा तथा।
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च॥
आर्जवं भृत्यभरणं नवैते सार्ववार्णीकाः॥

महाभारतम्/शान्तिपर्व/६/७-८

akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā।
prajanaḥ sveṣu dāreṣu śaucamadroha eva ca॥
ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavārṇīkāḥ॥

पदच्छेदः

अक्रोधः, सत्यवचनं, संविभागः, क्षमा, तथा, प्रजनः, स्वेषु, दारेषु,, शौचम्, अद्रोह, एव, च, आर्जवं, भृत्यभरणं, नव, एते, सार्ववार्णीकाः॥


तात्पर्यम्

अक्रोधः, सत्यभाषणं, परस्परविनिमयेन भोजनं, क्षमागुणः, स्वपत्नीरतत्वं, शुचिः, द्वेषद्रोहभावयोः राहित्यं, सरलप्रकृतिः, सेवकानां पालनं पोषणञ्चेति नव गुणाः चतुर्षु वर्णेषु समानरूपेण आचरितुम् अनुसर्तुञ्च योग्याः भवन्ति ।


आङ्ग्लार्थः

Truthfulness, to be free from anger, sharing wealth with others, (samvibhaga) forgiveness, procreation of children from one’s wife alone, purity, absence of enmity, straightforwardness and maintaining persons dependent on oneself are the nine rules of the Dharma for persons belonging to all the yarnas.

"https://sa.wikiquote.org/w/index.php?title=अक्रोधः_सत्यवचनं...&oldid=17377" इत्यस्माद् प्रतिप्राप्तम्