अक्रोधः क्रोधनेभ्यो ...

विकिसूक्तिः तः

सुभाषितम्

अक्रोधः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः॥

महाभारतम्/आदि/८७/६

akrodhaḥ krodhanebhyo viśiṣṭastathā titikṣuratitikṣorviśiṣṭaḥ।
amānuṣebhyo mānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ॥

पदच्छेदः

अक्रोधः, क्रोधनेभ्यः, विशिष्टः, तथा, तितिक्षुः, अतितिक्षोः, विशिष्टः, अमानुषेभ्यः, मानुषाः, च, प्रधानाः, विद्वांसः, तथा, एव, अविदुषः, प्रधानः ।


तात्पर्यम्

क्रोधस्वभाववतामपेक्षया क्रोधस्वभावरहितः विशिष्टः, असहिष्णूनामपेक्षया सहनशीलः विशिष्टः, अमानुषेभ्यः (पशुभ्यः) मनुष्यः विशिष्टः, तथैव मूर्खेभ्यः विद्वान् विशिष्टः श्रेष्ठः वा उत्तम इति मन्यते ।


आङ्ग्लार्थः

The men having no anger are superior to men with anger; men having forgiveness are superior to men having no forgiveness. Man is superior to animals and the learned to the ignorant.

"https://sa.wikiquote.org/w/index.php?title=अक्रोधः_क्रोधनेभ्यो_...&oldid=17383" इत्यस्माद् प्रतिप्राप्तम्