अति दानाद् बलिर्बध्द...

विकिसूक्तिः तः

सुभाषितम्

अति दानाद् बलिर्बद्धः अति मानात् सुयोदनः ।
विनष्टो रावणो लौल्यात् अति सर्वत्र वर्जयेत् ॥

चाणक्यनीतिः २३

ati dānād balirbadhda: ati mānāt suyodana: ।
vinaṣṭo rāvaṇo laulyāt ati sarvatra varjayet ॥

पदच्छेदः

अति, दानाद्, बलिः, बद्धः, अति, मानात्, सुयोदनः, विनष्टः, रावणः, लौल्यात्, अति, सर्वत्र, वर्जयेत् ।


तात्पर्यम्

महाराजः बलिः अतिदानात् बद्धः जातः । दुर्योदनः अति आत्माभिमानात् विनाशं प्राप्नोत् । रावणः स्त्रीलौल्यस्वभावात् विनष्टः जातः । अतः अति सर्वदा परित्यक्तव्यम् ।


आङ्ग्लार्थः

Bali met his end due to his extreme charity, Suyodhana (Duryodhana) was killed due to his excessive pride, far too much lust brought the end to Ravana. (Hence) give up 'excess' in everything.

"https://sa.wikiquote.org/w/index.php?title=अति_दानाद्_बलिर्बध्द...&oldid=17411" इत्यस्माद् प्रतिप्राप्तम्