अयि जननि मां पाहि...

विकिसूक्तिः तः

अयि जननि मां पाहि...


अयि जननि मां पाहि नुतशरणचरणम्
स्मेरमुखि जगदम्ब वितनु मयि करुणाम् ।

मम वदनमनुवदतु तव पुण्यचरितम्
श्रोत्रकुहरे पततु तव नाम शुभदम्
कायोऽस्तु कुसुमवत् तव पूजनाय
प्राणा हि सन्त्वम्ब तव सेवनाय ॥

धनकनकतो भवति न हि सार्थकत्वम्
पदवृद्धिधनकीर्तितो नैव सिद्धि:
तव पूतपदयुगलयोस्सदाश्रयणम्
सकलजगदधिदेवि मम भवतु सततम् ॥

विदधामि जगदम्ब तव विजयघोषम्
सह मित्रबान्धवैस्तारमनवरतम्
इच्छामि दातुमहमधिगताधिकम्
जन्मैतदतिफल्गु मम भवतु सफलम् ॥




"https://sa.wikiquote.org/w/index.php?title=अयि_जननि_मां_पाहि...&oldid=15371" इत्यस्माद् प्रतिप्राप्तम्