भुवमवतीर्णा नाकस्पर्धिनी...

विकिसूक्तिः तः

भुवमवतीर्णा नाकस्पर्धिनी...


भुवमवतीर्णा नाकस्पर्धिनी

भारतधरणीयं, मामकजननीयम् ॥


शिरसि हिमालय-मुकुट-विराजिता
पादे जलधिजलेन परिप्लुता
मध्ये गङ्गापरिसरपूता
भारतधरणीयं, मामकजननीयम् ॥१॥


काश्मीरेषु च वर्षति तुहिनम्
राजस्थाने प्रदहति पुलिनम्
मलयस्थाने वाति सुपवन:
भारतधरणीयं, मामकजननीयम् ॥२॥


नानाभाषि-जनाश्रय-दात्री
विविध-मतानां पोषणकर्त्री
नानातीर्थ-क्षेत्रसवित्री
भारतधरणीयं, मामकजननीयम् ॥३॥


पुण्यवतामियमेव हि नाक:
पुण्यजनानां रुद्रपिनाक:
पुण्यपराणामाश्रयलोक:

भारतधरणीयं, मामकजननीयम् ॥४॥
- जि. महाबलेश्वरभट्ट: