जय जय हे भगवति...

विकिसूक्तिः तः

जय जय हे भगवति...


जय जय हे भगवति सुरभारति
तव चरणौ प्रणमाम: ।
नादब्रह्ममयि जय वागीश्वरि
शरणं ते गच्छाम: ॥
 
त्वमसि शरण्या त्रिभुवनधन्या
सुर-मुनि-वन्दित-चरणा
नवरसमधुरा कवितामुखरा
स्मित-रुचि-रुचिराभरणा ॥

आसीना भव मानसहंसे
कुन्द-तुहिन-शशि-धवले
हर जडतां कुरु बोधिविकासं
सित-पङ्कज-तनु-विमले ॥

ललितकलामयि ज्ञानविभामयि
वीणा-पुस्तक-धारिणी
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि ॥




"https://sa.wikiquote.org/w/index.php?title=जय_जय_हे_भगवति...&oldid=15395" इत्यस्माद् प्रतिप्राप्तम्