देहि केशव...

विकिसूक्तिः तः

देहि केशव...


देहि केशव देहि माधव
निर्मलचरित ! आशिषम् ॥
त्वत्पदविरचितसत्पथगमनं
चिरकाङ्क्षितमभिलाषम् ॥

मधुरा वाणी सदयं हृदयं
वद मे कथमुपलब्धम् ॥
सुदृढा निष्ठा महती वृत्ति:
वद मे कथमुपलब्धा ॥

हिमवान् फाले जलधि: पादे
वद वै कथमभिदृष्ट: ॥
वनमालाङ्गं मुनिभिर्दृष्टं
वद मे कथमभिदृष्टम् ॥

हिन्दुसमाजं शिथिलं दृष्ट्वा
व्यथितं तावकहृदयम् ॥
मामकचित्ते तादृशभाव:
भाति कदा गाढं गाढम् ॥

पावनसंस्कृतिगङ्गा प्रवहति
हिन्दोरिहाविरामम् ॥
कण इव तस्मिन् मामकविलय:
वद मे भवति कदा ? ॥


- दो. प्रभाकरशर्मा


"https://sa.wikiquote.org/w/index.php?title=देहि_केशव...&oldid=15422" इत्यस्माद् प्रतिप्राप्तम्