मेधां देहि सरस्वति मात:...

विकिसूक्तिः तः

मेधां देहि सरस्वति मात:...


मेधां देहि सरस्वति मात:
वन्दामहे चरणम् ।
मुग्धभावकन्दलिता बाला
यामोऽनिशं शरणम् ॥

वेदशास्र-सकलागम-पूजिते
विमलं कुरु नो हृदयम् ।
काव्य-नृत्य-सङ्गीत-कलाविदे
तव पदनिरता वयम् ॥

वीणा-पुस्तक-माला-धारिणि
रसनायां वस सततम् ।
भेदभाव-कल्मष-रहितं तनु
दर्पणसदृशं चित्तम् ॥


- गु. गणपय्यहोळ्ळ: