जयतु जननी...

विकिसूक्तिः तः

जयतु जननी...


जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्
जयतु जम्बूद्वीपमखिलं सुन्दरं धामामृतम् ।
पुण्यभुवनं भारतम् ॥

धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती ।
रत्नगर्भा कामधेनु: कल्पवल्ली भास्वती ।
विन्ध्यभूषा सिन्धुरशना हिमगिरिशिखा शर्मदा ।
रम्य-गङ्गा-सङ्गयमुना महानदीह नर्मदा
कर्मतपसां सार्थतीर्थं प्रकृतिविभवालङ्कृतम् ॥ जयतु ...॥

आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता ।
एकमातु: सुतास्सर्वे भाति दिव्या भव्यता ।
यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता ।
तथाप्येका ह्यद्वितीया राजते जातीयता ।
ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम् ॥ जयतु...॥

आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम् ।
योग-भोग-त्याग-सेवा-शान्ति-सुगुणै: पुष्कलम् ।
यत् त्रिरङ्गं ध्वजं विदधत् वर्षमार्षं विजयते ।
सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते ।
मानविकता-प्रेमगीतं विबुधहृदये झङ्कृतम् ॥ जयतु ... ॥


- हरेकृष्णमेहेर:


"https://sa.wikiquote.org/w/index.php?title=जयतु_जननी...&oldid=15425" इत्यस्माद् प्रतिप्राप्तम्