अमृतस्य पुत्रा वयं...

विकिसूक्तिः तः

अमृतस्य पुत्रा वयं...


अमृतस्य पुत्रा वयं
सबलं सदयं नो हृदयम् ॥

गतमितिहासं पुनरुन्नेतुं
युवसङ्घटनं नवमिह कर्तुम् ॥
भारतकीर्तिं दिशि दिशि नेतुं
दृढसङ्कल्पा विपदि विजेतुम् ॥

ॠषिसन्देशं जगति नयेम
सत्त्वशालिनो मनसि भवेम ।
कष्टसमुद्रं सपदि तरेम
स्वीकृतकार्यं न हि त्यजेम ॥

दीनजनानां दु:खविमुक्तिं
महतां विषये निर्मलभक्तिम् ॥
सेवाकार्ये सन्ततशक्तिं
सदा भजेम भगवति रक्तिम् ॥


- गु. गणपय्यहोळ्ळ:


"https://sa.wikiquote.org/w/index.php?title=अमृतस्य_पुत्रा_वयं...&oldid=15426" इत्यस्माद् प्रतिप्राप्तम्