असौ वा आदित्यो देवमधु...

विकिसूक्तिः तः

असौ वा आदित्यो देवमधु, तस्य धौरेव तिरश्चीनवंशः, अन्तरिक्षमपूपः
मरीचयः पुत्राः ॥ - छान्दोग्योपनिषत् ३-१-१

असौ आदित्य एव देवमधु, तस्य द्युलोक एव तिरश्चीनः वंशः । अन्तरिक्षमेव
मध्वपूपः । किरणानि एव पुत्राः ॥

छान्दोग्योपनिषदि ‘मधुविद्या’ उपदिष्टा अस्ति । मधु इति मधुकरघृतम् । अत्र मन्त्रे
सूर्यमेव ‘देवमधु’ इति कल्पयन्ति । सूर्यं देवमधुत्वेन उपासीनस्य जीवनं सदा मधुवत्
मधुरं भवति ॥

अस्य सूर्यनाम्नो मधुनः द्युलोक एव तिरश्चीनः वंशः । द्युलोकः स्वर्गलोकः । स्वर्गलोकात्
डोलायमान इव सूर्यः दृश्यते खलु ? सूर्यः देवानां मोदम् आनन्दम् उत्पादयतीव दृश्यते इति
‘देवमधु’ इति कथ्यते । अन्तरिक्षमेव अपूपः । अन्तरिक्षे लग्न इव सूर्यो दृश्यते खलु ?
अन्तरिक्षम् अपूपः इव दृश्यते हि ? सूर्यस्य किरणान्येव आपः । सूर्यः स्वकिरणैः जलम्
आकर्षति खलु ? एवं मधुविद्यां विजानतः जीवने सर्वत्र सदा मधुरं सुखं लभ्यते ॥