सामग्री पर जाएँ

स्वप्नवासवदत्तम्

विकिसूक्तिः तः

स्वप्नवासवदत्तम्

कथापात्राणि।

पुरुष-पात्राणि

उदयनः - वत्सदेशस्य राजा ।

यौगन्धरायणः - उदयनस्य मुख्यमन्त्री।

रुमण्वान् - उदयनस्य द्वितीयः मन्त्री।

वसन्तकः - उदयनस्य विदूषकः।

ब्रह्मचारी - लावाणक ग्रामस्य छात्रः।

(1)काञ्चुकीय - मगधे अन्तः पुरस्य अधिकारी ब्राह्मणः।

(2)काञ्चुकीय - उज्जयिन्यां अन्त:पुरस्यां अधिकारी ब्राह्मणः।

स्त्री पात्राणि

वासवदत्ता - उदयनस्य प्रथमपत्नी, उज्जयिनीराजस्य प्रद्योतस्य पुत्रीः।

आवन्तिका - छद्मवेशधारिणी वासवदत्ता।

पद्मावती - मगधराजस्य दर्शकस्य भगिनी, उदयनस्य द्वितीयपत्नी।

अङ्गारवती - प्रद्योतस्यराणि, वासवदत्तायाः माता।

तापसी - मगजराज्यस्य तपोवने विद्यमाना तपस्विनी।

मधुकरिका, पद्मिनिका - पद्मावत्याः सख्यौ।

धात्री - पद्मावत्याः उपमाता।

वसुन्धरा - वासवदत्ताया धात्री।

विजया - वत्सराजस्य प्रतीहारी।


।। स्वप्नवासवदत्तम् ।।

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः - उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।

पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ।। 1 ।।

एवमार्यमिश्रान् विज्ञापयामि । अये । किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग । पश्यामि।
(नेपथ्ये)
उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्या ! उत्सरत ।)
सूत्रधारः - भवतु, विज्ञातम् ।
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
घृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ।। 2 ।।
(निष्क्रान्तः)
।। इति स्थापना ।।
अथ प्रथमोऽङ्कः
(प्रविश्य)
भटौ - उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्याः उत्सरत ।)
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेषधारिणी वासवदत्ता च।)
यौगन्धरायणः - (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः,
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै-
र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ।। 3 ।।
वासवदत्ता - अय्य! को एसो उस्सारेदि । (आर्य! क एष उत्सारयति?)
यौगन्धरायणः - भवति! यो धर्मादात्मानमुत्सारयति ।
वासवदत्ता - अय्य। ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति। (आर्य! न ह्येवं वक्तुकामा । अहमपि नामोत्सारयितव्या
भवामीति ।)
यौगन्धरायणः - भवति! एवमनिज्र्ञातानि दैवतान्यवधूयन्ते ।
वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो । (आर्य! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । )
यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः,
पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छ्लाध्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना चक्रारपंक्तिरिव गच्छति भाग्यपंक्तिः ।। 4 ।।
भटौ - उस्सरह अय्या ! उस्सरह । (उत्सरतार्याः उत्सरत ।)
(ततः प्रविशिति काञ्चुकीयः)
काञ्चुकीयः - सम्भषक! न खलु न खलूत्सारणा कार्या । पश्य,
परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ।। 5 ।।8
भटौ- अय्य! तह (आर्य! तथा।) (इति निष्क्रान्तौ)
उभौ - अय्य! तह (आर्य! तथा।)
(निष्क्रन्तौ)
यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पावस्तावदेनम् ।
वासवदत्ता - अय्य ! तह । (आर्य ! तथा ।)
यौगन्धरायणः - (उपसृत्य) भोः किंकृतेयमुत्सारणा ।
काञ्चुकीयः - भोस्तपस्विन् !
यौगन्धरायणः - (आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः । अपरिचयात्तु न शिल्ष्यते मे मनसि।
काञ्चुकीयः - भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं
महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति। तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः। तद् भवन्तः
तीर्थोदकानि समिधः कुसुमानि दर्भान्
स्वैरं वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया नृपसुता न हि धर्मपीडा-
मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ।। 6 ।।
यौगन्धरायणः - (स्वगतम्) एवम् । एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः,
प्रद्वेषो बहुमानो वा संकल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ।। 7 ।।
वासवदत्ता - (स्वगतम्) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ।। (राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र
संपद्यते।)
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी - एदु एदु भट्टिदारिआ, इदं अस्समपदं, पविसदु।। (एत्वेतु भर्तृदारिका, इदमाश्रमपदम्! प्रविशतु।)
(ततः प्रविशत्युपविष्टा तापसी)
तापसी - साअदं राअदारिआए ।। (स्वागतं राजदारिकायाः।)
वासवदत्ता - (स्वगतम्) इअं सा राअदारिआ। अभिजणाणुरूवं खु से रूवं (इयं सा राजदारिका। अभिजनानुरूपं खल्वस्या रूपम्।)
पद्मावती - अय्ये ! वन्दामि । (आर्ये ! वन्दे ।)
तापसी - चिरं जीव । पविस । जादे ! पविस । तवोवणाणि णाम अदिहिजणस्स सअगेहं । (चिरं जीव। प्रविश जाते ! प्रविश ।
तपोवनानि नामातिथिजनस्य स्वगेहम् ।)
पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि । इमिणा बहुमाणवअणेण अणुग्गहिदम्हि ।। (भवतु, भवतु । आर्ये ! विश्वस्तास्मि । अनेन
बहुमानवचनेनानुगृहीतास्मि ।)
वासवदत्ता - (स्वगतम्) ण हि रूवं एव्व, वाआ वि खु से महुरा । (न हि रूपमेव, वागपि खल्वस्या मधुरा ।)
तापसी - भद्दे ! इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि । (भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति
?)
चेटी - अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कारणादो दूदसंपादं करेदि । (अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स
दारकस्य कारणाद् दूतसंपातं करोति ।)
वासवदत्ता - (आत्मगतम्) भोदु भोदु । एसा अ अत्तणीआ दाणिं संवुत्ता । (भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता ।)9
तापसी - अरिहा खु इअं आइदी इमस्स बहुमाणस्स । उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। (अर्हा खल्वियमाकृतिरस्य
बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते ।)
पद्मावती - अय्य! किं दिट्ठो मुणिजणो उत्ताणं अणुग्गहीदुं ? अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि त्ति ।
(आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम्? अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किमत्रेच्छतीति?)
काञ्चुकीयः - यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः। श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इहात्रभवती मगधराजपुत्री अनेन
विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्रयते ।
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया
यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ।। 8 ।।
यौगन्धरायण: - हन्त! दृष्ट उपायः (प्रकाशम्) भोः अहमर्थी ।
पद्मावती - दिट्ठिआ सहलं मे तवोवणाभिगमणं । (दिष्टया सफलं मे तपोवनाभिगमनम् ।)
तापसी - संतुट्ठतपस्सिजणं इदं अस्समपदं । आअन्तुएण इमिणा होदव्वं ।
(सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।)
काञ्चुकीय: - भोः किं क्रियताम् ।
यौगन्धरायण: - इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम्। कुतः,
कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ।। 9 ।।
वासवदत्ता - (आत्मगतम्) हं। इह मं णिक्खिविदुकामो अय्ययोगेन्धराअणो । होदु, अविआरिअ कमं ण करिस्सदि । (हम्। इह मां
निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति।)
काञ्चुकीय - भवति! महतो खल्वस्य व्यपाश्रयणा। कथं प्रतिजानीमः कुतः,
सुखमर्थो भवेद्दातुं सुखं प्राणाः सुखं तपः।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम्।। 10 ।।
पद्मावती - अस्य! पढमं उग्घोसिअ को कि इच्छदित्ति अजुतं दाणिं विआरिदुं । जं एसो भणादि, तं अणुचिट्ठदु अय्यो । (आर्य !
प्रथममुद्धोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति तदनुतिष्ठत्वार्यः ।
काञ्चुकीय: - अनुरूपमेतद्भवत्याभिहितम् ।
चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । (चिरं जीवतु भर्र्तृदारिकैवं सत्यवादिनी ।)
तापसी - चिरं जीवदु भद्दे! (चिरं जीवतु भद्रे !)
काञ्चुकीय: - भवति! तथा । (उपागम्य) भो ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या।
यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या। वत्से ! उपसर्पात्रभवतीम् ।
वासवदत्ता - (आत्मगतम्) का गई । एसा गच्छामि मन्दभाआ । (का गतिः । एषा गच्छामि मन्दभागा।)
पद्मावती - भोदु, भोदु । अत्तणीआ दाणिं संवुत्ता । (भवतु, भवतु । आत्मीयेदानीं संवृत्ता ।)
तापसी - जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि ।
(या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि ।)
चेटी - सुट्ठु अय्या भणादि । अहं वि अणुहूदसुहत्ति पेवखामि । (सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति प्रेक्षे)10
योगन्धरायणः - (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि
तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः,
पद्मावती नरपतेर्महिषी भवित्री
दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा ।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या-
न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ।। 11।।
(ततः प्रविशति ब्रह्मचारी)
ब्रह्मचारी - (ऊध्र्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । अथ कस्मिन् प्रदेशे विश्रमयिष्ये। (परिक्रम्य) भवतु, दृष्टम् ।
अभितस्तपोवनेन भवितव्यम् । तथाहि-
विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया
वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः ।
भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो
निःसंदिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ।। 12 ।।
यावत् प्रविशामि । (प्रविश्य) अये आश्रमविरुद्धः खल्वेष जनः । (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र । निर्दोषमुपसर्पणम्
। अये स्त्रीजनः ।
काञ्चुकीयः - स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसाधारणमाश्रमपदं नाम।
वासवदत्ता - हम् ।
पद्मावती - अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु सुपरिपालणीओ खुमण्णासो । (अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु
सुपरिपालनीयः खलु मन्न्यासः)
काञ्चुकीय: - भोः! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यतामतिथिसत्कारः ।
ब्रह्मचारी - (आचम्य) भवतु, भवतु । निवृत्तपरिश्रमोऽस्मि ।
यौगन्धरायणः - भोः! कुत आगम्यते, क्व गन्तव्यं क्वाधिष्ठानमार्यस्य ?
ब्रह्मचारी - भोः! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामः । तत्रोषितवानस्मि ।
वासवदत्ता - (आत्मगतम्) हा लावाणअं णाम । लावाणअसंकित्तणेण पुणो णवीकिदो विअ मे सन्दावो। (हा लावाणकं नाम । लावाणकसंकीर्तनेन
पुनर्नवीकृत इव मे संतापः)
यौगन्धरायणः - अथ परिसमाप्ता विद्या ?
ब्रह्मचारी - न खलु तावत् ।
यौगन्धरायणः - यद्यनवसिता विद्या, किमागमनप्रयोजनम् ।
ब्रह्मचारी - तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।
यौगन्धरायणः - कथमिव ।
ब्रह्मचारी - तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः - श्रूयते तत्रभवानुदयनः किं सः ।
ब्रह्मचारी - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी हढमभिप्रेता किल ।
यौगन्धरायणः - भवितव्यम् । ततस्ततः ।
ब्रह्मचारी - ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा।11
वासवदत्ता - (आत्मगतम्) अळि़अं अळि़अं खु एदं । जीवामि मन्दभाआ । (अलीकमलीकं खल्वेतत्। जीवामि मन्दभागा।)
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः ।
यौगन्धरायण: - सत्यं पतित इति । ततस्ततः ।
ब्रह्मचारी - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसंतापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः ।
वासवदत्ता - (आत्मगतम्) जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं । (जानामि जानाम्यार्यपुत्रस्य मयि सानुकोशत्वम् ।)
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परिष्वज्य राजा मोहमुपगतः ।
सर्वे - हा ।
वासवदत्ता - (स्वगतम्) सकामो दाणिं अय्यजोअन्धराअणो होदु । (सकाम इदानीमार्ययौगान्धरायणो भवतु)
चेटी - भट्टिदारिए ! रोदिदि खु इअं अय्या । (भर्तृदारिके! रोदिति खल्वियमार्या ।)
पद्मावती - साणुक्कोसाए होदव्वं । (सानुक्रोशया भवितव्यम्।)
यौगन्धरायणः - अथ किमथ किम् । प्रकृत्या सानुक्रोशा मे भगिनी । ततस्ततः ।
ब्रह्मचारी - ततः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।
पद्मावती - दिट्टिआ धरइ। मोहं गतो त्ति सुणिअ सुण्णं विअ मे हिअअं । (दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे ह्रदयम् ।)
यौगन्धरायण: -ततस्ततः ।
ब्रह्मचारी - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते ! हा अवन्तिराजपुत्रि! हा प्रिये! हा प्रियशिष्ये! इति
किमपि बहु प्रलपितवान् । कि बहुना,
नैवेदानीं तादृशाश्चक्रवाका
नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः ।
धन्या सा स्त्री यां तथा वेत्ति भर्ता
भर्तृस्नेहात् सा हि दग्धाप्यदग्धा ।। 13 ।।
यौगन्धरायणः - अथ भोः ! तं तु पर्यवस्थापयितुं न कशिचद्यत्नवानमात्यः ।
ब्रह्मचारी - अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम् । स हि
अनाहारे तुल्य: प्रततरुदितक्षामवदनः
शरीरे संस्कारं नृपतिसमदुःखं परिवहन् ।
दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं
नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ।। 14 ।।
वासवदत्ता - (स्वगतम्) दिट्टिआ सुणिक्खित्तो दाणिं अय्यउत्तो । (दिष्ट््या सुनिक्षिप्त इदानीमार्यपुत्रः)
यौगन्धरायणः - (आत्मगतम्) अहो महद्भारमुद्वहति रुमण्वान् । कुतः
सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ।। 15 ।।
(प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा ।
ब्रह्मचारी - तदिदानीं न जाने। इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह
शयितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव
न भोऽरमणीयः संवृतः स ग्रामः। ततोऽहमपि निर्गतोऽस्मि ।12
तापसी - सो खु गुणवन्तो णाम राआ, जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि । (स खलु गुणवान् नाम राजा य आगन्तुकेनाप्यनेनैवं
प्रशस्यते ।)
चेटी - भट्टिदारिए! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि । (भर्तृंदारिके ! किं नु खल्वपरा स्त्री तस्य हस्तं गमिष्यति ।)
पद्मावती - (आत्मगतम्) मम हिअएण एव्व सह मन्तिदं । (मम हृदयेनैव सह मन्त्रितम् ।)
ब्रह्मचारी - आपृच्छामि भवन्तौ । गच्छामस्तावत् ।
उभौ - गम्यतामर्थसिद्धये ।
ब्रह्मचारी - तथास्तु ।
(निष्क्रान्तः)
यौगन्धरायण: - साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि ।
काञ्चुकीयः - तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल ।
पद्मावती - अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सिदि । (आर्यस्य भगिनीआर्येण विनोत्कण्ठिष्यते।)
यौगन्धरायणः - साधुजनहस्तगतैषा नोत्कण्ठिष्यति । (काञ्चुकीयमवलोक्य) गच्छामस्तावत् ।
काञ्चुकीय: - गच्छतु भवान् पुनर्दर्शनाय ।
यौगन्धरायणः - तथास्तु । (निष्क्रान्तः)
काञ्चुकीयः - समय इदानीमभ्यन्तरं प्रवेष्टुम् ।
पद्मावती - अय्ये! वन्दामि (आर्ये ! वन्दे ।)
तापसी - जादे! तव सदिसं भत्तारं ळभेहि । (जाते! तव सदृशं भर्तारं लभस्व ।)
वासवदत्ता - अय्ये ! वन्दामि दाव अहं । (आर्ये ! वन्दे तावदहम्)
तापसी - तुवं पि अइरेण भत्तारं समासादेहि ।। (त्वमप्यचिरेण भर्तारं समासादय ।)
वासवदत्ता - अणुग्गहीदम्हि ।। (अनुगृहीतास्मि ।)
काञ्चुकीय: - तदागम्यताम् । इत इतो भवति ! संप्रति हि
खगा वासोपेता: सलिलमवगाढो मुनिजनः
प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् ।
परिभ्रष्टो दूराद्रविरपि च संक्षिप्तकिरणो
रथं व्यावत्र्यासौ प्रविशति शनैरस्तशिखरम् ।। 16 ।।
(निष्क्रान्ताः सर्वे)

इति प्रथमोऽङ्कः ।

"https://sa.wikiquote.org/w/index.php?title=स्वप्नवासवदत्तम्&oldid=17588" इत्यस्माद् प्रतिप्राप्तम्