सौजन्यधन्यजनुषः पुरुषः...

विकिसूक्तिः तः

सुभाषितम्

सौजन्यधन्यजनुषः पुरुषा परेषां
दोषानपास्य गुणमेव गवेषयन्ति ।
त्यक्त्वा भुजंगमविषानि पटीरगर्भात्
सौरभ्यमेव पवनाः परिशीलयन्ति॥

saujanyadhanyajanuṣaḥ puruṣā pareṣhāṃ doṣhānapāsya guṇameva gaveṣhayanti ।
tyaktvā bhujangamaviṣhāni paṭeeragarbhāt saurabhyameva pavanāḥ pariśheelayanti ॥



तात्पर्यम्

यस्य जन्मः सौजन्य हेतुना पवित्रमस्ति सः अन्यानां दोषान् दूरयित्वा केवल गुणान्वेषणमेव करोति । यथा चन्दन वृक्षे जिवित सर्पाणां विषम् विहाय केवलम् तस्य सुगन्धमेव ग्राह्यम् भवति तथैव ।