बालस्यापि रवेः पादाः...

विकिसूक्तिः तः

सुभाषितम्

बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपजायते ॥

bālasyāpi raveḥ pādāḥ patantyupari bhūbhṛtām ।
tejasā saha jātānāṃ vayaḥ kutropajāyate ॥

पदच्छेदः

बालस्य, अपि, रवेः, पादाः, पतन्ति, उपरि, भूभृताम्, तेजसा, सह, जातानां, वयः, कुत्र, उपजायते ।


तात्पर्यम्

प्रातः कालीनस्य बालरवेः किरणाः बृहत् पर्वतानाम् उपरि अपि पतन्ति । एवं जन्मना यः तेजस्वी भवति, तस्य प्रभावः शक्तिर्वा वयसा न निर्धार्यते । तेजस्विनः बाल्येऽपि महत्कार्यं साधयन्ति इत्यर्थः ।

"https://sa.wikiquote.org/w/index.php?title=बालस्यापि_रवेः_पादाः...&oldid=16549" इत्यस्माद् प्रतिप्राप्तम्